श्री सूर्याष्टकम आदिदेव नमस्तुभ्यं Surya Ashtakam Lyrics in Hindi language. Suryashtakam is a very powerful mantra of Lord Surya, the Sun God.
श्री सूर्याष्टकम
श्री साम्ब उवाच:
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर।
दिवाकर नमस्तुभ्यं प्रभाकर नमोSस्तु ते।।1।।
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम्।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ।।2।।
लोहितं रथमारूढं सर्वलोकपितामहम्।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्।।3।।
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम्।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्।।4।।
बृंहितं तेज:पु़ञ्जं च वायुमाकाशमेव च।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ।।5।।
बन्धूकपुष्पसंकाशं हारकुण्डलभूषितम्।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम्।।6।।
www.hindudevotionalblog.com
तं सूर्यं जगत्कर्तारं महातेज:प्रदीपनम्।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्।।7।।
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम्।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्।।8।।
सूर्याष्टकं पठेन्नित्यं गृहपीड़ा प्रणाशनम।
अपुत्रो लभते पुत्रं दरिद्रो धनवान भवेत ।9।
अभिषं मधु पानं च य: करोत्तिवेदिने।
सप्तजन्म भवेद्रोगी जन्म-जन्म दरिद्रता ।10।
स्त्री तेल मधुमां-सा नित्य स्त्यजेन्तु रवेद्रिने।
न व्याधि: शोक दारिद्रयं सूर्यलोकं सगच्छति ।11।
www.hindudevotionalblog.com
इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम्।
Related Hindi Mantra Lyrics
--
Surya Mantras in Other Languages
Surya Gayatri Lyrics Devotional Song
Aditya Hridayam Stotra Kannada Lyrics
Aditya Hrudayam Lyrics Tamil Language
--
Comments
Post a Comment