श्रीमदय्यप्पमुद्रमालाधारणमन्त्रम् - Shri Ayyappa Mudramaladhara Namantram
ज्ञानमुद्रां शास्त्रमुद्रां गुरुमुद्रां नमाम्यहम् ।
वनमुद्रां शुद्धमुद्रां रुद्रमुद्रां नमाम्यहम् ॥ १॥
शान्तमुद्रां सत्यमुद्रां व्रतमुद्रां नमाम्यहम् ।
शबर्याश्रमसत्येन मुद्रा पातु सदापि माम् ॥ २॥
गुरुदक्षिणया पूर्वं तस्यानुग्रहकारिणे ।
शरणागतमुद्राख्यं त्वन्मुद्रां धारयाम्यहम् ॥ ३॥
चिन्मुद्रां खेचरीमुद्रां भद्रमुद्रां नमाम्यहम् ।
शबर्याचलमुद्रायै नमस्तुभ्यं नमो नमः ॥ ४॥
इति श्रीमदय्यप्पमुद्रमालाधारणमन्त्रं सम्पूर्णम् ।
Comments
Post a Comment